|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.68. अध्यायः 068
Mahabharata - Vana Parva - Chapter Topics
नलान्वेपिणा पर्णादनाम्ना विप्रेण ऋतुपर्णनृपगृहे बाहुकनामनिगृढे नले शृण्वति दमयन्तीवचनानुवादः ॥ 1 ॥ बाहुकेन विजने पर्णादंप्रति दमयन्तीवचनस्योत्तरदानम् ॥ 2 ॥ पर्णादेन विदर्भान्पुनरभ्येत्य दमयन्त्या बाहुकवचननिवेदनम् ॥ 3 ॥ बाहुके नलशङ्किन्या दमयन्त्या प्रेपितेन सुदेवेन अयोध्यांगत्वा ऋतुपर्णे श्लोनभूते दमयन्त्याः पुनः स्वयंवरो भवितेति कीर्तनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-68-0x(1949)(18506)
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः।
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥ 3-68-1(18507)
नैषधं मृगयाणेन दमयन्ति दिवानिशम्।
अयोध्यां नगरीं गत्वा भागस्वरिरुपस्थितः ॥ 3-68-2(18508)
श्रावितश्च मया वाक्यं त्वदीयं स महाजने।
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥ 3-68-3(18509)
तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः।
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत् ॥ 3-68-4(18510)
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्।
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥ 3-68-5(18511)
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः।
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने ॥ 3-68-6(18512)
स विनिःश्वस्य बंहुशो रुदित्वा च षुनःपुनः।
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥ 3-68-7(18513)
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥ 3-68-8(18514)
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन। 3-68-9bप्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥ 3-68-9(18515)
विषमस्थेन मूढेन परिभ्रष्टसुखेन च।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥ 3-68-10(18516)
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ 3-68-11(18517)
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम्।
भ्रष्टराज्यं श्रित्या हीनं श्यामा न क्रोद्धुमर्हति ॥ 3-68-12(18518)
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः।
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदयः ॥ 3-68-13(18519)
एतच्छ्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशांपते।
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभापत ॥ 3-68-14(18520)
अयमर्थौ न संवेद्यो भीमे मातः कदाचन।
त्वत्सन्निधौ नियोक्ष्येऽहंसुदेवं द्विजसत्तमम् ॥ 3-68-15(18521)
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्।
यथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि ॥ 3-68-16(18522)
यथा चाहं समानीता सुदेवेनाशु बान्धवान्।
तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम् ॥ 3-68-17(18523)
समानेतुं नलं मातरयोध्यां नगरीमितः।
`ऋतुपर्णस्य नगरे निवसन्तमरिन्दमम्' ॥ 3-68-18(18524)
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम्।
अर्चयामास वैदर्भी धनेनातीव भामिनी ॥ 3-68-19(18525)
`लवाच चैनं महता संपूज्य द्रविणेन वै।'
नले चेहागते विप्र भूयो दास्याभि ते वसु ॥ 3-68-20(18526)
त्वया हि मे बहुकृतंयदन्यो न करिष्यति।
यद्भर्त्राऽहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥ 3-68-21(18527)
स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः।
गृहानुपययौ चापि कृतार्थः सुमहामनाः ॥ 3-68-22(18528)
ततः सुदेवमानाय्य दमयन्ती युधिष्ठिर।
अब्रवीत्सन्निदौ मातुर्दुःखशोकसमन्विता ॥ 3-68-23(18529)
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्।
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ॥ 3-68-24(18530)
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम्।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ 3-68-25(18531)
तथा च गणितः कालः श्वोभूते स भविष्यति।
यदि संभाविनीयं ते गच्छ शीघ्रमरिंदम ॥ 3-68-26(18532)
सूर्योदये द्वतीयं सा भर्तारं वरयिष्यति।
न हि स ज्ञायते वीरो नलो जीवन्मृतोपि वा ॥ 3-68-27(18533)
एवं तथा यथोक्तो वै गत्वा राजानमब्रवीत्।
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥ 3-68-28(18534)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपास्त्र्यानपर्वणि अष्टषष्ठितमोऽध्यायः ॥ 68 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-68-8 गोपायन्ति पालयन्ति। जितः स्वर्गस्ताभिरित शेषः ॥ 3-68-26 संभाविनी संभाविता इयम्। गतिरिति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|